Appendix – 4
Dana Sasana of Janamejaya
in Sanskrit

[गद्यभागः — Inscription Prose]

स्वस्ति श्री प्लवङ्गाख्य सहस्रैकोनानवति (८९) वत्सरे सहसिमासि अमावास्यायां सोमवासरे श्रीमन्महाराजाधिराजपरमेश्वर वैयाघ्रपादगोत्रज श्रीजनमेजयभूपो इन्द्रप्रस्थनगरीसिंहासनस्थः सकलवर्णाश्रमधर्मप्रतिपालको उत्तरहिमालये श्रीकेदारक्षेत्रे तत्रैयमुनयः उत्तरमठस्य श्रीगोस्वामि-आनन्दलिङ्गजङ्गमाय श्रीमच्छिष्यप्रशिष्याणां लिङ्ग जङ्गमाराधना श्रीकेदारनाथस्य पूजार्थं दत्तवन्तः,

चतुस्सीमापरिमितिक्रमः —

पूर्वभागे दक्षिणवाहिनी मन्दाकिनी। पश्चिमोत्तरभागे क्षौरगङ्गा, उत्तरपश्चिमभागे मधुगङ्गा, पूर्वोत्तरभागे स्वर्गद्वार-नदौ, दक्षिणे सरस्वती, मन्दाकिन्याः सङ्गमः।

एतन्मध्ये श्रीकेदारक्षेत्रं भवच्छिष्यपरम्परया आचन्द्रार्कपर्यन्तं निधिनिक्षेप-जलपाषाणागामि-सिद्धसाध्य-तेजःस्वाम्यसहितं मनुभोक्तुं स्वबुद्ध्यानुकूल्येन अस्मन्मातृपितॄणां शिवलोकप्राप्त्यर्थं श्रीकेदा‌रेश्वरसन्निधौ उपरागसमये सहिरण्‍यमन्दाकिनी-जलधारापूर्वकं क्षेत्रमिदं हस्ते दत्तवानस्मि। एतद्धर्मसाधनाय साक्षिणः —

[श्लोकाः — Verses]

श्लोक १:

आदित्यचन्द्रावनिलोनलश्च द्यौर्भूमिरापो हृदयं यमश्च।

अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम्॥

श्लोक २:

दानपालनयोर्मध्ये दानाच्छ्रेयोऽनुपालनम्।

दानात्स्वर्गमवाप्नोति पालनादच्युतं पदम्॥

श्लोक ३:

स्वदत्तां पुत्रिकां विद्यात् पितृदत्तां सहोदरीम्।

अन्यदत्तां तु जननीं दत्तभूमिं न परित्यजेत्॥

श्लोक ४:

स्वदत्तां परदत्तां वा ब्रह्मवृत्तिं हरेत यः।

षष्टिंवर्षसहस्राणि विष्ठायां जायते कृमिः॥